Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राममन्दिरस्य नृत्यगायनविषये राहुलगान्धिनः वचनेन अयोध्यायाः क्रुद्धा: साधव: अप्रसन्नतां प्रकटितवन्तः। २६ सितम्बर् दिनाङ्के हरियाणाराज्ये निर्वाचनप्रचारकाले राहुलः उक्तवान् आसीत् यत्, 'अयोध्यायां राममन्दिरस्य उद्घाटनसमये अम्बाणी-अदाणी-चित्रनायका: उपस्थिता: आसन्। राष्ट्रपति-उपस्थिति: न आसीत्। आदिवासी-कारणात् अनुमति: न प्राप्ता। अयोध्यायां नृत्यं गायनं च प्रचलति। 

एतस्य प्रतिक्रियारूपेण राममन्दिरस्य मुख्यपुरोहितः सत्येन्द्रदासः अवदत्-'कोंग्रेससर्वकारः आरम्भादेव वदति यत् रामस्य अस्तित्त्वं नास्ति इति। एतादृशे सति तेषां नेतारः अवश्यमेव एतत् वदिष्यन्ति न संशय:। “जाकी रही भावना जैसी, प्रभु मूरत देखी तिन तैसी।” यदि राहुलः प्राणप्रतिष्ठां नौटंकी इति कथयति तर्हि तस्य एतादृशी एव मानसिकता अस्ति। तेषां दृष्टौ तत् नाटकम् आसीत्, परन्तु भक्तानां दृष्टौ प्राणप्रतिष्ठा। मन्दिरे भगवान् श्रीरामः बालरूपेण स्थापितः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्