Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

QS विश्वविद्यालयक्रमे 266तमः क्रमः,विश्वस्य शीर्षविश्वविद्यालयेषु 50तमः क्रमः तथा च टाइम्स्-उच्चशिक्षाविश्वक्रमे २५०-३०० क्रमसमूहे यस्य क्रमः आगच्छति सः डिकेनविश्वविद्यालय: भारते परिसरं निर्मातुं प्रयतते। अयं प्रथमः वैदेशिकविश्वविद्यालयः भविष्यति यस्य स्वतन्त्रपरिसरः भारते अस्ति। ऑस्ट्रेलिया-देशस्य प्रधानमन्त्री एन्थोनी-अल्बनीज ८ मार्च-दिनाङ्के भारतस्य भ्रमणकाले एतस्य आधिकारिकघोषणां कर्तुं शक्नोति। एतदर्थं विश्वविद्यालयस्य केन्द्रसर्वकारेण सह वार्तालापः अपि प्रचलति। विश्वविद्यालयद्वयं गुजरातस्य गान्धिनगरस्य समीपे Gujarat International Finance Tec-City इति गिफ्टसिटी स्थाने एकं स्वतन्त्रं आन्ताराष्ट्रियशाखापरिसरं स्थापयितुं अन्ताराष्ट्रियवित्तीयसेवाकेन्द्रप्राधिकरण (IFSCA) इत्यनेन सह सम्पर्के अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्