'औरङ्गजैब' इत्यस्य विषये अबु आजमी विवादास्पदटिप्पणीं कृतवान् आसीत्। विवादास्पदवक्तव्यस्य फलस्वरूपं समाजवादिपक्षस्य नेता अबू असीम आजमी महाराष्ट्रविधानसभातः निलम्बितः अस्ति। सः वर्तमानसत्रस्य कृते निलम्बितः अस्ति। महाराष्ट्रसर्वकारस्य मन्त्री चन्द्रकान्तपाटिलः विधानसभासत्रे अबू आजमी इत्यस्य निलम्बनस्य प्रस्तावम् अस्थापयत्। भाजपानेता सुधीरमुनगुन्टीवार: अवदत् यत् केवलं एकस्य सत्रस्य कृते सः निलम्बितः न भवेत्, विधानसभातः निष्कासितः भवेत्। छत्रपति शिवाजी पूज्यः अस्ति, तस्य अपमानं ये कुर्वन्ति तान् वयं सहजतया मोचयितुं न शक्नुमः।