Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रस्य छत्रपतिसंभाजीनगरे (पूर्वं औरंगाबाद) स्थितस्य औरङ्गजेबस्य शवावटस्य निष्कासनस्य विषयः गतिं प्राप्नोत्। बजरङ्गदलस्य विश्वहिन्दुपरिषदः च महाराष्ट्रसर्वकाराय शीघ्रमेव तत् दूरीकर्तुं आग्रह: अस्ति। विवादेऽस्मिन् अवटस्य सुरक्षा वर्धितास्ति। विश्वहिन्दुपरिषदः महाराष्ट्रगोवाक्षेत्रीयमन्त्री गोविन्दशेण्डे औरङ्गजेबस्य शवावट: ’दासत्वस्य प्रतीकम्’ इति उक्तवन्तः। सः सोमवासरे – मार्चमासस्य १७ दिनाङ्के अर्थात् अद्य शिवाजीमहाराजस्य जन्मदिवसः अस्ति, अद्य वयं सम्पूर्णे महाराष्ट्रे विरोधं कृत्वा छत्रपतिसंभाजीनगरं प्रति गमिष्यामः। औरंगजेब: सम्भाजीमहाराजाय ४० दिनानि यावत् क्रूरयातनां दत्वा अमारयत्। एतादृशस्य क्रूरस्य शासकस्य चिह्नं किमर्थं तिष्ठेत् ?

अद्यतनवार्ता

भारतम्

विश्वम्