Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

शेखहसीनाया: बाङ्गलादेशात् निर्गतमात्रेण तत्र अल्पसंख्याकानां उपरि आक्रमणानि आरब्धानि। आहत्य २३ दिनेषु ५६० जनानां मृत्यु: अभवत्। बाङ्गलादेशस्य अनेकनगरेषु मन्दिरेषु आक्रमणानां सूचनाः प्राप्ता:। ठाकुरगांग-गोपालगंज-खुलना-मौलवीबाजार-क्षेत्रेषु हिन्दव: अधिका: सन्ति परन्तु तथापि तत्र भयवातावरणमस्ति। आहत्य ६४ जनपदेभ्य: ५२ जनपदेषु आक्रमणानि जायमानानि सन्ति। ढाकानगरे शाहबागक्षेत्रे शनिवासरे विभिन्ननगरेभ्यः आगता: अल्पसंख्यका: आक्रमणस्य विरोधाय प्रदर्शनं कृतवन्त:। ते वदन्ति यत् वयं ढाकानगरे सुरक्षिताः स्मः, परन्तु ढाकातः बहिः गमनमात्रेण अस्माकं प्राणाः संकटग्रस्ताः सन्ति। आक्रमणभयात् निद्रां कर्तुं असमर्था:। तथापि ढाकानगरस्य स्थितिः अपि बहु उत्तमः नास्ति। अत्र मन्दिराणां बहिः सेना नियोजिता अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्