अफगानिस्तानस्य राजधान्यां काबुलनगरे बुधवासरे आत्मघात्याक्रमणे तालिबान-शरणार्थिमन्त्री खलील रहमान हक्कानी मृतः। शरणार्थिमन्त्रालये यदा हक्कानी प्रार्थनायै बहिः गच्छति स्म तदा एतत् आक्रमणं जातम्। अस्मिन् चत्वारः अङ्गरक्षकाः अपि मृताः। अधुना यावत् आक्रमणस्य समयस्य विषये सूचना न प्राप्यते। समाचारसंस्थाया: रायटर् इत्यस्या: अनुसारं खलील हक्कानी इत्यस्य भ्रात्रीय: अनस हक्कानी तस्य मृत्योः पुष्टिं कृतवान् अस्ति। अद्यावधि कोऽपि समूहः अस्य आक्रमणस्य उत्तरदायित्वं न गृहीतवान् । परन्तु केषुचित् माध्यमेषु आतङ्कवादिसमूहस्य ISIS-K इत्यस्य विषये शङ्का उत्पन्ना अस्ति।