Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकादेशस्य पूर्वराष्ट्रपतिः, प्रवर्तमाननिर्वाचनस्य प्रत्याशी च डोनाल्डट्रम्पः निर्वाचनसभायां भुशुण्डि-आक्रमणे सद्भाग्येन रक्षित:। यदा ट्रम्पः पेन्सिल्वेनियानगरे सभां कुर्वन् आसीत् तदा एकः युवकः सहसा गोलिकया प्रहारं कर्तुं आरब्धवान्। अस्मिन् प्रसङ्गे ट्रम्पः पूर्णतया रक्षितः इति चलत्चित्रे दृश्यते। ट्रम्पस्य दक्षिणकर्णं स्पृशन्ती गोलिका गता तदनन्तरं स: अध: उपविष्टवान्। यदि गोलिका किञ्चिदपि अन्त: आगता स्यात् चेत् तस्य मृत्यु: निश्चित: एव आसीत् परन्तु सद्भाग्येन रक्षित:। संरक्षणाधिकारिभि: स: सपद्येव आवृत:। 

अद्यतनवार्ता

भारतम्

विश्वम्