Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

धारनगरे भोजशाला मन्दिरं वा मस्जिदम् ? अस्य प्रश्नस्य उत्तरं ज्ञातुं ९८ दिवसान् यावत् वैज्ञानिकं सर्वेक्षणं जातम्। भारतीयपुरातत्वसर्वेक्षणस्य अधिवक्ता हिमांशुजोशी सोमवासरे इन्दौरस्य उच्चन्यायालये एतत् प्रतिवेदनं प्रस्तुतवान्। प्रतिवेदनं द्विसहस्रपृष्ठात्मकमस्ति। उत्खननस्य समये १७०० तः अधिकाः प्रमाणाः / अवशेषाः प्राप्ताः सन्ति। उच्चन्यायालयः जुलैमासस्य २२ दिनाङ्के एतस्य श्रवणं करिष्यति। हिन्दुपक्षस्य अधिवक्ता हरिशंकरजैनः प्रतिपादितवान् यत् 'भोजशालायाः सर्वेक्षणप्रतिवेदनेन हिन्दुपक्षस्य प्रतिपादनं शतप्रतिशतं सिद्धं भवति।' अत्र ९४ लेखाः प्राप्ताः, एतेषु भग्नप्रतिमाः, शिलालेखाः, संस्कृतश्लोकाः च सन्ति। अत्र वाग्देवीमन्दिरम् आसीत्, धार्मिकशिक्षा च दीयते स्म इति भासते। विभिन्नकालस्य प्रायः ३० मुद्राः अपि समाविष्टाः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्