Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अरुणाचलप्रदेशे सिक्किमराज्ये च विधानसभानिर्वाचनस्य गणना जायमाना वर्तते। प्राप्तपरिणामानुसारं सिक्किमनगरे सत्ताधीश: सिक्किमक्रान्तिकारीमोर्चा (एसकेएम) पुनः बहुमतं प्राप्तवान् अस्ति। अपरपक्षे अरुणाचलप्रदेशे पुनः भारतीयजनतादल: सर्वकारस्य निर्माणं कुर्वन् दृश्यते। अरुणाचलसिक्किमविधानसभयोः मतदानं १९ एप्रिलदिनाङ्के एकस्मिन् चरणे सम्पन्नम्। लोकसभानिर्वाचने एसकेएमसङ्घस्य एनडीसंघटनेन सह युति: अस्ति, परन्तु विधानसभानिर्वाचने स्वतन्त्रतया भागं स्वीकृतमस्ति। अरुणाचले जेडीयु-कोंग्रेसदलयो: दुर्गति: दृश्यते।

अद्यतनवार्ता

भारतम्

विश्वम्