वित्तमन्त्री अरुणजेटली स्वास्थ्यपरीक्षार्थं अचानकं अमेरिकादेशं गतः आसीत् तत्र स्वास्थ्यपरीक्षावसरे ज्ञातं यत् सः सोफ्ट-टिश्यू-सरकोमा-नामकेन दुर्लभकर्करोगेण ग्रस्तः अस्ति। अद्यत्वे अन्तरिम-आयव्ययपत्रसिद्धता प्रचलति। एतस्मिन् समये एव प्राप्ता एषा दु:खदा वार्ता । सूत्रानुसारेण वित्तमन्त्री सम्भवतः फरवरीमासस्य प्रथमे दिनाङ्के आयव्ययपत्रं प्रस्तुतं कर्तुं समर्थः न भविष्यति ।