Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

२०२४ तमस्य वर्षस्य पेरिस-ओलम्पिकक्रीडायां कुन्तलप्रक्षेपे स्वर्णपदकं प्राप्तवान् पाकिस्तानक्रीडकः अरशदनदीमः स्वदेशं प्रत्यागत्य पाकिस्तान-मरकजी-मुस्लिम-लीग-सङ्घस्य नेतॄन् मिलितवान्, तदनन्तरं विवादः प्रारब्धः। वस्तुतः पीएमएमएल इति कुख्यातस्य आतङ्कवादीसङ्घटनस्य लश्कर-ए-तोइबा इत्यस्य राजनैतिकपक्षः अस्ति । तस्योपरि संयुक्तराष्ट्रसङ्घेन प्रतिबन्धितः उद्घोषित: अस्ति। पाकिस्तान मरकजी मुस्लिमलीगस्य प्रवक्ता ताबीश कय्युमः युवापक्षस्य अध्यक्षः हारीस डारः च अरशदनदीमस्य गृहे मिलितवन्तौ। पीएमएमएल इत्यनेन एव सामाजिकमाध्यममञ्चे X (पूर्वं ट्विट्टर्) इत्यत्र एकं पोस्ट् लिखित्वा सूचना दत्ता। पाकिस्तान मरकजी मुस्लिम लीग् इत्यनेन अपि अरशदनदीमस्य कृते मातापितृभ्यां च निर्वाचने उमरा-चिटिकां दातुं घोषितम्।

अद्यतनवार्ता

भारतम्

विश्वम्