उत्तराखण्डस्य चमोलीनगरे शुक्रवासरे प्रातः ७.१५ वादने हिमस्खलनं जातम्। यस्मिन् सीमामार्गसङ्घटनस्य (BRO) ५७ कर्मकरा: प्रभाविता:। तेषां निष्कासनार्थं संलग्नाः सेना, आईटीबीपी, बीआरओ, एसडीआरएफ, एनडीआरएफ चेत्येतेषां कार्यकर्तार: सायं यावत् ३२ श्रमिकान् निष्कासितवन्तः।
३२०० मीटर् अधिके ऊर्ध्वतायां ६ फिट्पर्यन्तं हिमपातस्य मध्ये अवशिष्टानां २५ श्रमिकाणाम् अन्वेषणं निरन्तरं प्रचलति। एषा घटना बद्रीनाथतः ३ किलोमीटर् दूरे चमोली-नगरस्य माणाग्रामे अभवत्।
रक्षिता: सर्वे श्रमिका: माणाग्रामे ITBP शिबिरे आनीताः सन्ति। चतुर्णां जनानां स्थितिः गम्भीरा अस्ति। सम्प्रति वातावरणप्रभावेन उद्धारकार्यं स्थगितम् अस्ति। सम्पूर्णे क्षेत्रे महान् हिमपातः जायमान: अस्ति।