Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरस्य पहलगामक्षेत्रे आतङ्कवादिभि: कृतस्य आक्रमणस्य विषये केन्द्रसर्वकारेण कानिचन महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। बुधवासरे पाकिस्तानविरुद्धं पञ्च प्रमुखनिर्णयान् कृत्वा अधुना गुरुवासरे विदेशमन्त्री एस.जयशंकरः गृहमन्त्री अमितशाहः च राष्ट्रपतिद्रौपदी मुर्मू इत्यनेन सह मेलितुं गतवन्तौ। सुरक्षास्थितेः गम्भीरताम्, आगामिनां रणनीतीनां विषये च विचार्य एष: उच्चस्तरीयसमागमः महत्त्वपूर्ण: इति मन्यते। ततः अद्य सायंकाले सर्वदलीयसभा आहूता यस्य अध्यक्षता रक्षामन्त्री राजनाथसिंहः कृतवान्। सभायामस्यां सर्वेषां दलानां प्रतिनिधय, प्रमुखाधिकारिण:, सर्वकारस्य मन्त्रिमण्डलस्य केचन मन्त्रिण: च भागमहवन्। सर्वै: दलनेतृभिः एकस्वरेण उक्तं यत् सर्वकारः यत् किमपि पदं गृह्णाति तस्य वयं समर्थनं करिष्यामः। अतः केचन विषयाः अपि आगताः, तेषां स्पष्टीकरणं सभायां जात:।

अद्यतनवार्ता

भारतम्

विश्वम्