उत्तरप्रदेशे समाजवादिपक्षस्य प्रमुखः अखिलेशयादवः व्यङ्ग्यं कृतवान् यत्, 'मुख्यमन्त्रीनिवासस्थाने शिवलिङ्गम् अपि अस्ति।' अतः राज्यस्य सर्वेषु धार्मिकस्थानेषु अपि च मुख्यमन्त्रिनिवासस्थाने उत्खननं कृत्वा शिवलिङ्गं सुरक्षिततया बहिः निष्कासनीयम्।' एतदतिरिक्तं सः आरोपितवान् यत्, 'राजभवने अवैधनिर्माणं भवति, परन्तु सर्वकारः किमपि कार्यं न करोति' इति। स: अवदत्- 'स्वेच्छया महाकुम्भनगरम् आगन्तुं परम्परा अस्ति। अस्य कृते कोऽपि आमन्त्रितः न भवति, परन्तु सर्वकारः सर्वकार्यं त्यक्त्वा महाकुम्भस्य निमन्त्रणानि दातुं व्यस्तः अस्ति। महाकुम्भसज्जा अपूर्णा अस्ति। सेतुनिर्माणं न सम्पन्नम्। मार्गाः न निर्मीयन्ते। अधुना १५ दिवसेषु कार्यं कथं सम्पन्नं भविष्यति ?'