परम्परागतसंस्कृतगुरुकुले प्रायश: वेद-व्याकरण-पुराणशास्त्रादीनाम् अध्ययनं भवति इति। गुरुकुलपरम्परा भारतीयसंस्कृते: मूलमस्ति यत्र अस्माकं वैदिकसंस्कृते:, सनातनपरम्पराया:, उत्कृष्टज्ञानस्य च पठनपाठनं भवति। प्राचीनकालादेव अनया गुरुकुलपद्धत्या वैदिकं ज्ञानं अधुना यावत् प्रसृतमस्ति। आधुनिके काले कानिचन तादृशानि गुरुकुलानि अपि सन्ति यानि परम्परागतशिक्षणेन सह आधुनिक अभियान्त्रिक्या: अपि अध्ययनं कारयन्ति येन गुरुकुले पठन्त: छात्रा: आधुनिकतन्त्रज्ञाने अपि स्वसहयोगं दद्यु:। तेषु एकं गुरुकुलम् अस्ति एस.जी.वी.पी. संस्थाया: दर्शनं संस्कृतमहाविद्यालय:। दर्शनं संस्कृतमहाविद्यालय: भारतस्य प्रथमं गुरुकुलं अस्ति येन अन्ताराष्ट्रियमान्यता प्राप्ता अस्ति। गुरुकुलेऽस्मिन् षड्कक्षात: विद्यावारिधि(पी.एच.डी.) पर्यन्तं नि:शुल्कशिक्षा, भोजनावाससहितं प्रदीयते। गुरुकुले पाठ्यक्रमपरिधि: ने केवलं संस्कृतशास्त्राणि परन्तु विविधक्रीडाभि: सह आधुनिकविषयाणाम् यथा ए.आई., रोबोटिक्स्, विज्ञानं, इत्यादय: विषया: पाठ्यन्ते येन गुरुकुले पठितवन्त: छात्रा: आधुनिकछात्रै: सह स्वयोगदानं दातुं शक्नुयु:। विशाले हरिते परिसरे बृहद् क्रीडाक्षेत्राणि, आधुनिक-’स्मार्ट्’-कक्षा:, विज्ञानप्रयोगशाला, भाषाप्रयोगशाला, डिजिटलपुस्तकालय:, संगणकप्रयोगशाला, दृश्यश्राव्यकक्षा:, सभागारं चेति सुविधा: सन्ति। संस्कृतशास्त्राणां ज्ञानेन सह सर्वतोलक्षी विकास: अपि अत्र महत्त्वपूर्ण: अस्ति। अत्र प्रवेशार्थं ओनलाइनमाध्यमेन प्रवेशप्रक्रिया भवति। https://forms.gle/kraHW91GLrurnq337