छत्तीसगढस्य राजधान्यां रायपुरनगरे कोंग्रेसदलस्य प्रचलति ८५ तमे अधिवेशने अन्तिमदिने राहुलगान्धी भाषणं दत्तवान्। अस्मिन् अस्मिन् भाषणे सः न केवलं स्वस्य भारतजोडोयात्रायाः उल्लेखं कृतवान्, अपितु तेन सह १९७७ तमस्य वर्षस्य एकस्य अनुभवस्य विषये अपि वदन् दृष्टः । सः अवदत् “५२ वर्षाणि अभवन् परन्तु अस्माकं स्वकीयं गृहं नास्ति।” अधुना तस्य वक्तव्यस्य प्रतिक्रियाः सामाजिकमाध्यमेषु आगच्छन्ति।
तेनोक्तं आसीत् -“अहं बालः आसम्, १९७७ तमस्य वर्षस्य घटना इयम्। निर्वाचनम् आगतं, अहं तस्य विषये किमपि न जानामि स्म। गृहे विचित्रं वातावरणम् आसीत् । अहं मम मातरं पृष्टवान् किं जातम् ? माता अवदत् वयं गृहात् निर्गच्छामः। तावत्पर्यन्तं अहं गृहं अस्माकं एव इति चिन्तयामि स्म। अहं मातरं पृष्टवान् यत् वयं किमर्थं गृहात् बहिः गच्छामः। प्रथमवारं माता मां अवदत् यत् एतत् अस्माकं गृहं नास्ति। एतत् सर्वकारस्य गृहम् अस्ति। अधुना अस्माभिः इतः प्रस्थानं करणीयम्। यदा मया पृष्टं यत् कुत्र गन्तव्यं तदा सा उक्तवती यत् न जानामि कुत्र गन्तव्यम् इति। अहं आश्चर्यचकितः अभवम्। ५२ वर्षाणि अभवन्। मम गृहं नास्ति। अद्यावधि गृहं नास्ति।