अवैधरूपेण भारते निवसतां पाकिस्ताननागरिकाणां निष्कासनाय अमितशाहेन मुख्यमन्त्रिणां गोष्ठिं कृत्वा स्पष्ट: निर्देश: दत्त: आसीत्। तदनन्तरं प्रत्येकं राज्यस्य अधिकारिण: स्व स्वराज्ये निवसतां वैदेशिकानां संज्ञानाय प्रयत्नरता: सन्ति। गुजराते नगरद्वये अहमदाबादनगरे सूरतनगरे च जाते अभियाने सहस्रश: अवैधवैदेशिका: प्राप्ता:। परिस्थिति: एषा भयोत्पादिका अस्ति। सर्वकारीयविवरणानुसारं केवलं महाराष्ट्रे एव आज्ञाप्राप्ता: ५०३७ पाकिस्ताननागरिका: निवसन्ति। अवैधनागरिका: कति स्यु: इति प्रश्न:। एवमेव सर्वेषु राज्येषु अधुना महाभियानं चलति।
अधुना अयं यक्षप्रश्न: अस्ति यत् भारते निवस्तुं दीर्घकालीनाज्ञां प्राप्ता: प्रत्येकं राज्ये नैके पाकिस्ताननागरिका: सन्ति। तै: अद्य कथञ्चिदपि पुन: गन्तव्यं भविष्यति। परन्तु ये पाकिस्तान-बाङ्ग्लादेशनागरिका: अनधिकृतरूपेण भारते वसन्ति तेषां किम्? अवैधरूपेण भारतमागता: ते कथञ्चिदपि भारतस्य स्वस्य परिचयपत्राणि मतदानपत्राणि अपि प्राप्तवन्त:। यदि गुजरातस्य नगरद्वये एव प्रथमे प्रयासे सहस्रश: अवैधा: जना: प्राप्ता: तर्हि अयं चिन्तनीय: प्रश्न: यत् अन्येषु राज्येषु नगरेषु ग्रामेषु विथिसु वा कति अवैधा: नागरिका: वसन्ति? यदि एतस्मिन् विषये चिन्तनं कार्यं च न भविष्यति तर्हि निकटस्थकाले एव तेषां सङ्ख्या कोटिश: भविष्यति इति………………..