Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्यायां निर्मिते भव्ये मन्दिरे भगवत: रामस्य प्राणप्रतिष्ठां कारितवान् आचार्य: लक्ष्मीकान्तदीक्षित: अद्य प्रातःकाले दिवङ्गत:। ८६ वर्षीयः आचार्यः विगतदिनेषु गम्भीरव्याधिग्रस्तः आसीत्। मणिकर्णिकाघाटे तस्य दाहसंस्कारः कृतः। प्राणप्रतिष्ठावसरे तस्य मुख्यपुरोहितत्वेन नियुक्ति: जाता आसीत्। तस्य पूर्वजाः नागपुर-नाशिक-राज्येषु धार्मिकानुष्ठानानि अकुर्वन्। लक्ष्मीकान्तदीक्षितः पूजाव्यवस्थायां सिद्धहस्तः आसीत्, वाराणसीनगरस्य मीरघाटस्थस्य साङ्गवेदमहाविद्यालयस्य वरिष्ठप्रधानाध्यापकः च आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्