इराकसैन्याभियाने ISIS इत्यस्य सीरियाप्रमुख: अबू खदीजा मारित:। इराकस्य प्रधानमन्त्री मोहम्मदशिया अल-सूदानी इत्यनेन शुक्रवासरे एतस्य पुष्टिः कृता। अस्मिन् सम्पूर्णे कार्ये अमेरिकानेतृत्वेन गणेनापि सहकार: दत्त:। कदाचित् इराक्-सीरिया-देशयोः बृहत्भागं नियन्त्रयन् आसीत् ISIS इदानीं पुनः समूहीकरणं कर्तुं प्रयतते स्म। २०१४ तमे वर्षे अबूबकर-अल्-बगदादी इराक्-सीरिया-देशयोः बृहत्भागे खिलाफत इत्यस्य घोषणां कृतवान्, परन्तु २०१९ तमे वर्षे अमेरिकीसैन्यकार्यक्रमे सः मृतः। तदनन्तरं संस्थायाः क्षयः आरब्धः।