Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आकाशवाण्यां संस्कृतवार्ताया: प्रथमप्रसारणं १९७४ तमे वर्षे जूनमासस्य ३० दिनाङ्के आरब्धम् आसीत्। आरम्भे केवलं पञ्चनिमेषात्मिका दैनिकसंस्कृतवार्ता प्रात: नववादने प्रसारिता, तदनन्तरं च अस्या: प्रसारणकाल: ०६:५५ वादनम् अभवत्। दशनिमेषात्मकं च द्वितीयं प्रसारणं सायंकाले दशाधिकषड्वादने अभवत्, तदनु अयं काल: परिवर्त्य ०६:२० अभवत्। स्वस्यां विशिष्टशैल्यां, आकाशवाणीवर्ग: विगतएकोनपञ्चाशत्वर्षेभ्य: भारतस्य नागरिकान्तं यावत् संस्कृतभाषायां संस्कृतवार्ता: प्रसारयन्ति। “इयम् आकाशवाणी। सम्प्रति वार्ता: श्रूयन्ताम्।” इति संस्कृतवार्ताश्रोतृषु दृढं जातमस्ति। दिनमिदं लक्ष्यीकृत्य  अद्य ’मन की बात’ इति कार्यक्रमस्य आरम्भं प्रधानमन्त्री संस्कृतभाषया एव कृतवान्। तेन दिनस्यस्य महत्त्वं लक्ष्यीकृत्य आकाशवाण्या: कृते  सर्वेभ्य: संस्कृतरसिकेभ्य: च शुभकामना: दत्तवान्। स्ववक्तव्ये तेन संस्कृतभाषाया: माहात्म्यं सम्यक् प्रतिपादितम्। 

अद्यतनवार्ता

भारतम्

विश्वम्