सीमसुरक्षाबलेन अद्य पञ्च आतङ्कवादिनः मारिताः। वर्षेऽस्मिन् आहत्य २०० मृताः।
मध्यकश्मीरस्य बडगामजनपदस्य पाखेरपोराप्रदेशे प्रातः एव सुरक्षाबलभटानां आतङ्कवादिभिः सह द्वन्द्वमारभत। आरक्षकाधिकारिणा उक्तं यत् इतः पञ्चचत्वारिंशत् किलोमीटर-परिमितं दूरे आतङ्कवादिनाम् उपस्थितेः सूचनां प्राप्य सुरक्षाबलैः अन्वेषणाभियानम् आरब्धम्। बडगाम इति विस्तारे भटैः चतुरः आतङ्कवादिनः मारिताः। सोपेरे अपि एकः आतङ्कवादी मारितः। भारतसर्वकारस्य दृढसङ्कल्पेन एतस्मिन् वर्षे आहत्य द्विशतं आतङ्कवादिनः परलोकं प्रापिताः।