Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तराखण्डस्य रुद्रप्रयागमण्डले केदारनाथयात्रामार्गे शिलापातेन त्रयः तीर्थयात्रिकाः मृताः। दुर्घटनायामस्यां ८ जनाः आहता:। यात्रिका: गौरीकुण्डतः ३ कि.मी दूरे स्थिते चिडवासानगरे निर्मितेन पदमार्गेण केदारनाथधामं प्रति गच्छन्तः आसन्, तदा प्रातः ७:३० वादनस्य समीपे शिलापतनेन आहता:। आपदाप्रबन्धनस्य नन्दनसिंहराजवार: अवदत् यत् येषु मृताः तेषु महाराष्ट्रस्य नागपुरतः किशोर अरुण पार्टे, जलनातः सुनीलमहादेव काले, रुद्रप्रयागतः अनुराग बिष्टः च सन्ति। एसडीआरएफदलेन ८ जना: उद्धारिता: चिकित्सालये च प्रवेशिताः।

अद्यतनवार्ता

भारतम्

विश्वम्