Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातराज्यस्य सूरतनगरे हृदयद्रावकः अग्निकाण्डः सञ्जातः यस्मिन् विंशतिः छात्राः एका शिक्षिका च मृताः सन्ति । सूरतनगरस्य एकस्मिन् विपणिस्थाने शोर्टसर्किट् कारणात् अग्निः प्रारब्धः । तस्मिन् एव भवने चतुर्थे अट्टे नियमविरुद्धनिर्मितः कलावर्गः प्रचलति स्म । भवने ’टायर’ इति चक्राणामपि आपणः आसीत् तेन अग्निः शीघ्रतया चतुर्थाट्टपर्यन्तं व्याप्तः । अवतरणसोपानानि काष्ठनिर्मितानि आसन् अतः तानि अपि आशु नष्टानि । धूमप्रभावेन द्रष्टुम् अशक्ताः छात्राः वातायनेषु आगत्य रक्षणार्थं आक्रोशन्ति स्म। यदा आत्मरक्षणस्य न कोऽपि मार्गः अवशिष्टः तदा तैः छात्रैः अधः कुर्दनं कृतम्। मृत्योः अनेकानि कारणानि भवितुमर्हन्ति। नियमविरुद्धम् अटनिर्माणम्. अग्निरक्षासाधनानाम् अभावः, अग्निशामकदलस्य समयेन नागमनम्, तत्रत्यानां जनानां चित्रकर्षणे व्यस्तता इत्यादयः परन्तु एकविंशतिः परिवाराणामुपरि कष्टपर्वतः पतितः । प्रधानमन्त्रिणा नरेन्द्रमोदिना एतस्मिन् प्रकरणे ट्विटर् माध्यमेन दु:खं प्रकटीकृतम्। मुख्यमन्त्रिणा विजयरूपाणी महोदयेनापि आश्वासनं यच्छता चतुर्लक्षरूप्यकाणां सहायताराशिं दातुं उद्घोषितम्।

अद्यतनवार्ता

भारतम्

विश्वम्