Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मूकश्मीरराज्यम् आगच्छतां पर्यटकाणां मार्गः सुगमः भविष्यति । अत्र प्रायः पञ्चसहस्रकोटिरूप्यकाणां व्ययेन १८ नूतनानां रज्जुमार्गाणां स्थानानि सर्वकारेण चिह्नितानि सन्ति। एतदर्थं  सर्वकारेण एन.एच.एल.एम.एल. इत्यनेन सह ज्ञापनपत्रे हस्ताक्षरं कृतम् अस्ति ।

बालतालतः अमरनाथगुहापर्यन्तं प्रस्तावितः ९ कि.मी. अनेन १४ कि.मी.मार्गस्य पादयात्रायाः कालः १० घण्टातः ४० निमेषपर्यन्तं न्यूनीभविष्यति । आगामिवर्षे त्रयाणां रज्जुमार्गाणां कार्यं सम्पन्नं भवितुम् अर्हति। 

सम्प्रति जम्मू-कश्मीरे ५ रज्जुमार्गाः कार्यरताः सन्ति। जम्मूकश्मीरसदृशे पर्वतीयराज्ये रोपवे पर्यावरणस्य अनुकूलं माध्यमम् अस्ति। अस्मिन् वृक्षाणां छेदनं न भविष्यति। एतदतिरिक्तं मार्गनिर्माणार्थं भूमिप्राप्तिः न कर्तव्या। निर्माणस्य, अनुरक्षणस्य च व्ययः न्यूनः भवति ।

अद्यतनवार्ता

भारतम्

विश्वम्