Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

१९४९ तमे वर्षे सितम्बरमासस्य १४ दिनाङ्के भारतस्य संविधानसभया देवनागरीलिप्यां हिन्दीभाषा भारतस्य राजभाषारूपेण स्वीकृता। तदनन्तरं १९५३ तमवर्षात् प्रतिवर्षं १४ सेप्टेम्बर दिनाङ्के हिन्दीदिवसरूपेण आचर्यते। भारतस्य कृते अयं दिवसः महत्त्वपूर्णः दिवसः अस्ति। एतेन हिन्दीभाषायाः महत्त्वं ज्ञायते। हिन्दीदिवसः न केवलं हिन्दीभाषायाः प्रतिष्ठायाः प्रतीकम्, अपितु देशस्य सांस्कृतिकैकतायाः प्रतीकम् अपि अस्ति। अस्मिन् दिने विविधाः कार्यक्रमाः आयोज्यन्ते, येन हिन्दीभाषायाः महत्त्वं अधिकं वर्धते।

अद्यतनवार्ता

भारतम्

विश्वम्