Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य प्रयासेन २०१४ तम: दिनाङ्क: संयुक्तराष्ट्रसंघेन अन्ताराष्ट्रिय: योगदिवस: इति उद्घोषितम्। तदनु प्रतिवर्षं जूनमासस्य २१ दिनाङ्के समग्रे विश्वे योगदिवस: मन्यन्ते। अद्य दशम: अन्ताराष्ट्रिय: योगदिवस: अस्ति अपि च “आत्मने समाजाय च योग: इति विषय: अस्ति। शनै: शनै: अयं दिवस: उत्सवरूपेण समाजे आचर्यन्ते। वीथीसु शैक्षणिकसंस्थासु उद्यानेषु नदीतटेषु राजभवनेषु वा सर्वत्र जना: योगासनानि प्राणायमं च कृतवन्त:। प्रधानमन्त्री  नरेन्द्रमोदी अद्य दालसरोवरस्य तटे जनै: सह योगं कृतवान् सेल्फी च स्वीकृतवान्। तथैव नाना राजनेतार: स्व स्व क्षेत्रे जनै: सह योगासनं कृतवन्त:। न केवलं भारते, अपि तु विश्वस्य नैकेषु देशेषु जनै: मिलित्वा योगासनानि कृतानि। 



 

अद्यतनवार्ता

भारतम्

विश्वम्