उत्तरभारते वर्षासम्बन्धिघटनासु आहत्य सप्तसप्ततिः जनानां मृत्युः अभवत्। हथिनीकुण्डहृदात् सततं जलनिष्कासनकारणात् राजधान्यां देहल्यां यमुनानदी भयजनकस्तरे वहन्ती अस्ति। सप्तविंशतिः रेलयानानि स्थगितानि कृतानि सन्ति। बिहारेऽपि अतिवृष्टिकारणात् विद्युत्पातकारणात् पञ्चानां मृत्युः अभवत्।